मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् ८

संहिता

क्रीळ॑न्त्यस्य सू॒नृता॒ आपो॒ न प्र॒वता॑ य॒तीः ।
अ॒या धि॒या य उ॒च्यते॒ पति॑र्दि॒वः ॥

पदपाठः

क्रीळ॑न्ति । अ॒स्य॒ । सू॒नृताः॑ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः ।
अ॒या । धि॒या । यः । उ॒च्यते॑ । पतिः॑ । दि॒वः ॥

सायणभाष्यम्

अस्येन्द्रस्य सूनृताः प्रियसत्यात्मिकावाचः क्रीळन्ति विहरन्ति तत्रदृष्टांतः- प्रवता प्रवणेन मार्गेण यतीर्गच्छन्त्यआपोन आपइव यथानि- म्रोन्नतेन पथा गच्छन्त्यआपउत्पतननिपतनेन विहरन्ति तद्वत् दिवः स्वर्गस्य पतिः पालयिता यइन्द्रः अया धिया स्तुत्या उच्यते प्रति- पाद्यते अस्येन्द्रस्येत्यन्वयः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः