मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् १०

संहिता

स्तु॒हि श्रु॒तं वि॑प॒श्चितं॒ हरी॒ यस्य॑ प्रस॒क्षिणा॑ ।
गन्ता॑रा दा॒शुषो॑ गृ॒हं न॑म॒स्विनः॑ ॥

पदपाठः

स्तु॒हि । श्रु॒तम् । वि॒पः॒ऽचित॑म् । हरी॒ इति॑ । यस्य॑ । प्र॒ऽस॒क्षिणा॑ ।
गन्ता॑रा । दा॒शुषः॑ । गृ॒हम् । न॒म॒स्विनः॑ ॥

सायणभाष्यम्

हे स्तोतः विपश्चितं विशिष्टज्ञानं श्रुतं विश्रुतं प्रख्यातं तमिन्द्रं स्तुहि प्रशंस । यस्येन्द्रस्य हरी अश्वौ प्रसक्षिणा शत्रूणां प्रसहन- शीलौ नमस्विनोहविष्मतः दाशुपोदत्तवतोयजमानस्य गृहं गंतारा गमनशीलौच तमिन्द्रं स्तुहीति संबंधः गमेस्ताच्छीलिकस्तृन् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः