मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् ११

संहिता

तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे॑भिः प्रुषि॒तप्सु॑भिः ।
आ या॑हि य॒ज्ञमा॒शुभि॒ः शमिद्धि ते॑ ॥

पदपाठः

तू॒तु॒जा॒नः । म॒हे॒ऽम॒ते॒ । अश्वे॑भिः । प्रु॒षि॒तप्सु॑ऽभिः ।
आ । या॒हि॒ । य॒ज्ञम् । आ॒शुऽभिः॑ । शम् । इत् । हि । ते॒ ॥

सायणभाष्यम्

हे महेमते महते फलाय मतिर्बुध्दिर्यस्यासौ महेमतिः अलुक् छान्दसः सतादृश हे इन्द्र तूतुजानस्त्वरमाणः सन् प्रुषितप्सुभिः स्निग्ध- रूपैराशुभिः शीघ्रगामिभिरश्वेभिः अश्वैर्यज्ञमस्मदीयमायाह्वागच्छ । हि यस्मात्ते तव तस्मिन् यज्ञे शमित् सुखं विद्यतएव अतआगच्छे- त्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः