मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् १२

संहिता

इन्द्र॑ शविष्ठ सत्पते र॒यिं गृ॒णत्सु॑ धारय ।
श्रवः॑ सू॒रिभ्यो॑ अ॒मृतं॑ वसुत्व॒नम् ॥

पदपाठः

इन्द्र॑ । श॒वि॒ष्ठ॒ । स॒त्ऽप॒ते॒ । र॒यिम् । गृ॒णत्ऽसु॑ । धा॒र॒य॒ ।
श्रवः॑ । सू॒रिऽभ्यः॑ । अ॒मृत॑म् । व॒सु॒ऽत्व॒नम् ॥

सायणभाष्यम्

हे शविष्ठ बलवत्तम सत्पते सतां पालयितरिन्द्र गृणत्स्वस्मासु रयिं धनं धारयाश्वस्थापय । अपिच सूरिभ्यः स्तोतृभ्योमृतमनश्वरं वसुत्वनं व्याप्तिमत् श्रवोन्नं यशोवा देहीति शेषः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः