मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् १३

संहिता

हवे॑ त्वा॒ सूर॒ उदि॑ते॒ हवे॑ म॒ध्यंदि॑ने दि॒वः ।
जु॒षा॒ण इ॑न्द्र॒ सप्ति॑भिर्न॒ आ ग॑हि ॥

पदपाठः

हवे॑ । त्वा॒ । सूरे॑ । उत्ऽइ॑ते । हवे॑ । म॒ध्यन्दि॑ने । दि॒वः ।
जु॒षा॒णः । इ॒न्द्र॒ । सप्ति॑ऽभिः । नः॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

हे इन्द्र सूरे सूर्ये उदिते उदयं प्राप्ते सति प्रातःसवने त्वा त्वां हवे आह्वये । तथा दिवोदिवसस्य मध्यन्दिने मध्यभागे माध्यन्दिने सवने त्वां हवे आह्वये । हे इन्द्र सत्वं जुषाणः प्रीयमाणः सन् सप्तिभिः सर्पणशीलैरश्वैर्नोस्मानागह्चागच्छ ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः