मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् १४

संहिता

आ तू ग॑हि॒ प्र तु द्र॑व॒ मत्स्वा॑ सु॒तस्य॒ गोम॑तः ।
तन्तुं॑ तनुष्व पू॒र्व्यं यथा॑ वि॒दे ॥

पदपाठः

आ । तु । ग॒हि॒ । प्र । तु । द्र॒व॒ । मत्स्व॑ । सु॒तस्य॑ । गोऽम॑तः ।
तन्तु॑म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । यथा॑ । वि॒दे ॥

सायणभाष्यम्

हे इन्द्र तु क्षिममागह्चागच्छ आगत्यच तु क्षिप्रं प्रद्रव सोमोयत्र निवसति तं देशं प्रति शीघ्रं गच्छ । गत्वाच गोमतः गोविकारैः पयःप्रभृतिभिः श्रयणद्रव्यैर्युक्तस्य सुतस्याभिषुतस्य सोमस्य पानेन मत्स्व माद्य हृष्टोभव । तदनंतरं यथा अहं विदे उपलभे तथा पूर्व्यं पूर्वैःकृतं तंतुं विस्तृतं यज्ञं तनुष्व सम्यङिष्पादय फलोत्पादनसमर्थं कुर्वित्यर्थः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः