मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् १६

संहिता

इन्द्रं॑ वर्धन्तु नो॒ गिर॒ इन्द्रं॑ सु॒तास॒ इन्द॑वः ।
इन्द्रे॑ ह॒विष्म॑ती॒र्विशो॑ अराणिषुः ॥

पदपाठः

इन्द्र॑म् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । इन्द्र॑म् । सु॒तासः॑ । इन्द॑वः ।
इन्द्रे॑ । ह॒विष्म॑तीः । विशः॑ । अ॒रा॒णि॒षुः॒ ॥

सायणभाष्यम्

नोस्माकं गिरः स्तुतिरूपावाचः इन्द्रं वर्धन्तु वर्धयन्तु सुतासोभिषुताः इन्दवः सोमाश्र्चास्मदीयास्तमिन्द्रं वर्धयन्तु हविष्मतीर्हविष्मत्यः हविर्भिश्र्वरुपुरोडाशादिभिर्युक्ताः विशः प्रजा तस्मिन्निन्द्रे अराणिषुररंसिषुः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०