मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् १७

संहिता

तमिद्विप्रा॑ अव॒स्यवः॑ प्र॒वत्व॑तीभिरू॒तिभि॑ः ।
इन्द्रं॑ क्षो॒णीर॑वर्धयन्व॒या इ॑व ॥

पदपाठः

तम् । इत् । विप्राः॑ । अ॒व॒स्यवः॑ । प्र॒वत्व॑तीभिः । ऊ॒तिऽभिः॑ ।
इन्द्र॑म् । क्षो॒णीः । अ॒व॒र्ध॒य॒न् । व॒याःऽइ॑व ॥

सायणभाष्यम्

विप्रामेधाविनः अवस्यवोरक्षणकामाः स्तोतारः तमित् तमेवेन्द्रं प्रवत्वतीभिः प्रकर्षेणाभिगन्त्रीभिः ऊतिभिस्तृप्तिकरीभिराहुतिभिः स्तु- तिभिर्वा वर्धयन्ति तथा क्षोणीः क्षोण्यः क्षोणीति पृथिवीनाम तदुपलक्षिताः सर्वे लोकावयाइव वृक्षस्य शाखाइव तदधीनाः सन्तोवर्ध- यन्वर्धयन्ति ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०