मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् १९

संहिता

स्तो॒ता यत्ते॒ अनु॑व्रत उ॒क्थान्यृ॑तु॒था द॒धे ।
शुचि॑ः पाव॒क उ॑च्यते॒ सो अद्भु॑तः ॥

पदपाठः

स्तो॒ता । यत् । ते॒ । अनु॑ऽव्रतः । उ॒क्थानि॑ । ऋ॒तु॒ऽथा । द॒धे ।
शुचिः॑ । पा॒व॒कः । उ॒च्य॒ते॒ । सः । अद्भु॑तः ॥

सायणभाष्यम्

हे इन्द्र यत् यस्य ते तव स्तोता अनुव्रतः अनुकूलकर्मासन् ऋतुथा ऋतुषु कालेकाले उक्थानि शस्त्रादि दधे विधत्ते करोति लोपस्त आत्मनेपदेष्वितितलोपः । परोर्धर्चः परोक्षकृतः । सइन्द्रः अद्रुतः आश्र्वर्यभूतः शुचिः शुद्धः पावकोन्येषामपिशोधकइति उच्यते स्तोतृभिः स्तूयते ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०