मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् २१

संहिता

यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यन्ध॑सः ।
येन॒ विश्वा॒ अति॒ द्विषो॒ अता॑रिम ॥

पदपाठः

यदि॑ । मे॒ । स॒ख्यम् । आ॒ऽवरः॑ । इ॒मस्य॑ । पा॒हि॒ । अन्ध॑सः ।
येन॑ । विश्वाः॑ । अति॑ । द्विषः॑ । अता॑रिम ॥

सायणभाष्यम्

हे इन्द्र मे मम सख्यं सखित्वं यद्यावरः यदि आभिमुख्येन वृणुयाः तर्हि इम्स्य अस्य हलिलोपाभावश्छान्दसः पुरोवर्तिनः अंधसः अन्नस्य सोमलक्षणस्य स्वांशं पाहि पिब । अंधसइति कर्मणि वा षष्ठी पिबतेश्छान्दसोविकरणस्य शपोलुक् । येन त्वत्पीतेन सोमेन हेतना वयं विश्वाः सर्वाद्विषोद्वेष्ट्रीः शत्रुसेनाः अत्यतारिम अतितरेम अतिक्रामेम ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११