मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् २२

संहिता

क॒दा त॑ इन्द्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः ।
क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ॑ दधः ॥

पदपाठः

क॒दा । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । स्तो॒ता । भ॒वा॒ति॒ । शम्ऽत॑मः ।
क॒दा । नः॒ । गव्ये॑ । अश्व्ये॑ । वसौ॑ । द॒धः॒ ॥

सायणभाष्यम्

हे गिर्वणोगिरां स्तुतीनां संभक्तरिन्द्र ते तव स्तोता शंतमः सुखतमोतिशये नसुखवान् कदा कस्मिन्काले भवाति भवेत् कदा कस्मिंश्च काले नोस्मान् गव्ये गोसमूहे अश्व्ये अश्वसंघे वसौ निवासभूतेन्यस्मिन्नपि धने दधः धारये: ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११