उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथ॑म् ।
अ॒जु॒र्यस्य॑ म॒दिन्त॑मं॒ यमीम॑हे ॥
उ॒त । ते॒ । सुऽस्तु॑ता । हरी॒ इति॑ । वृष॑णा । व॒ह॒तः॒ । रथ॑म् ।
अ॒जु॒र्यस्य॑ । म॒दिन्ऽत॑मम् । यम् । ईम॑हे ॥
उतापिच हे इन्द्र सुष्टुता शोभनस्तुतौ वृषणा वृषणौ कामानां वर्षितारौ हरी अश्वौ अजुर्यस्य जरारहितस्य ते तव रथं इदानीं वहतः अस्मन्निकटं प्रापयतः मदिन्तमं अतिशयेम मदवन्तं यं त्वां धनं ईमहे याचामहे तस्य तइत्यन्वय: ॥ २३ ॥