मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् २४

संहिता

तमी॑महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभि॑ः ।
नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता ॥

पदपाठः

तम् । ई॒म॒हे॒ । पु॒रु॒ऽस्तु॒तम् । य॒ह्वम् । प्र॒त्नाभिः॑ । ऊ॒तिऽभिः॑ ।
नि । ब॒र्हिषि॑ । प्रि॒ये । स॒द॒त् । अध॑ । द्वि॒ता ॥

सायणभाष्यम्

यह्वं महांतं बहुभि: स्तुतमिन्द्रं प्रत्नाभि: ऊतिभिस्तृप्तिकरीभि: सोमाहुतिभिर्हेतुभि: ईमहे याचामहे सचेन्द्र: प्रिये प्रीतिकरे बर्हिषि आस्तीर्णे दर्भे निषदत् निषीदतु हवि:स्वीकरणायोपविशतु अधानंतरं द्विता द्वैधं वर्तमानानि चरुपुरोडाशादीनि सोमलक्षणानिच हवींषि स्वीकरोत्विति- रोष: ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११