मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् २५

संहिता

वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभि॑ः ।
धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा॑ च नः ॥

पदपाठः

वर्ध॑स्व । सु । पु॒रु॒ऽस्तु॒त॒ । ऋषि॑ऽस्तुताभिः । ऊ॒तिऽभिः॑ ।
धु॒क्षस्व॑ । पि॒प्युषी॑म् । इष॑म् । अव॑ । च॒ । नः॒ ॥

सायणभाष्यम्

हे पुरुष्टुत बहुभि: स्तुतेन्द्र ऋषिस्तुताभि: ऋषिभिर्मन्त्रदर्शिभि: पुरा स्तुताभि: ऊतिभीरक्षाभि: सु सुष्टु वर्धस्वास्मान्वर्धय । यद्वा ऋषिभिरुत्पा- दिताभि: ऊतिभि: स्तुतिभि: त्वं वर्धस्व वृद्धिं प्राप्नुहि । नोस्मभ्यंच पिप्युषीं प्रवृद्धां इषं इष्यमाणमन्नं अवधुक्षस्व अवाङ्मुखमस्मदभिमुखं धुक्षस्व क्षारय देहीत्यर्थ: ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११