मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् २६

संहिता

इन्द्र॒ त्वम॑वि॒तेद॑सी॒त्था स्तु॑व॒तो अ॑द्रिवः ।
ऋ॒तादि॑यर्मि ते॒ धियं॑ मनो॒युज॑म् ॥

पदपाठः

इन्द्र॑ । त्वम् । अ॒वि॒ता । इत् । अ॒सि॒ । इ॒त्था । स्तु॒व॒तः । अ॒द्रि॒ऽवः॒ ।
ऋ॒तात् । इ॒य॒र्मि॒ । ते॒ । धिय॑म् । म॒नः॒ऽयुज॑म् ॥

सायणभाष्यम्

हे अद्रिव: वज्रवन्निन्द्र त्वं इत्था इत्थमनेन प्रकारेण स्तुवत: स्तोत्रं कुर्वतोयजमानस्य अवितेदसि रक्षितैवभवसि । यतएवमत:कारणात् अहमपि ऋताद्यज्ञाद्धेतो: मनोयुजं मनसा मननीयेनस्तोत्रिण प्राप्यां ते त्वदीयां धियमनुग्रहबुद्धिं इयर्मि प्राप्नोमि । यद्वा ऋतात्सत्यभूतात् त्वत्त: स्तोत्रेण युक्तं त्वत्प्रीतिकरं कर्माहं प्राप्नोमि ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२