मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् २७

संहिता

इ॒ह त्या स॑ध॒माद्या॑ युजा॒नः सोम॑पीतये ।
हरी॑ इन्द्र प्र॒तद्व॑सू अ॒भि स्व॑र ॥

पदपाठः

इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । यु॒जा॒नः । सोम॑ऽपीतये ।
हरी॒ इति॑ । इ॒न्द्र॒ । प्र॒तद्व॑सू॒ इति॑ प्र॒तत्ऽव॑सू । अ॒भि । स्व॒र॒ ॥

सायणभाष्यम्

हे इन्द्र इहास्मिन्यागे सोमपीतयेसोमपानायाभिस्वराभिगच्छ । किंकुर्वन् त्या त्यौ तौ प्रसिद्धौ सधमाद्या त्वया सह हविर्भिर्मादयितव्यौ तर्पयि- तव्यौ प्रतद्वसू प्राप्तवसू विस्तीर्णधनौ ईदृशौ हरी त्वदीयावश्वौ युजान: रथेन संयोजयन् ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२