मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् २९

संहिता

इ॒मा अ॑स्य॒ प्रतू॑र्तयः प॒दं जु॑षन्त॒ यद्दि॒वि ।
नाभा॑ य॒ज्ञस्य॒ सं द॑धु॒र्यथा॑ वि॒दे ॥

पदपाठः

इ॒माः । अ॒स्य॒ । प्रऽतू॑र्तयः । प॒दम् । जु॒ष॒न्त॒ । यत् । दि॒वि ।
नाभा॑ । य॒ज्ञस्य॑ । सम् । द॒धुः॒ । यथा॑ । वि॒दे ॥

सायणभाष्यम्

अस्येन्द्रस्य संबंधिन्य: इमा: पूर्वोक्तामरुदादिरूपा: प्रजा: प्रतूर्तय: प्रकर्षेण शत्रूणां हिंसित्र्य: पदं स्थानं जुषंत असेवन्त । दिवि द्युलोकेयत्स्थानं अन्यैर्दु:प्रापमस्तितत्पदमित्यर्थ: । अपिच ता: यज्ञस्य ज्योतिष्टोमादे: नाभा नाभौ नाभिस्थानीये हविर्धाने उत्तरवेधां वा संदधु: संनिदधते । यथा येन प्रकारेण विदे विन्दे अपेक्षितं धनं लभे तथेत्यर्थ: । यद्वा विदे ज्ञानय यथास्माकं वरं ज्ञानं भवति तथेत्यर्थ: ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२