मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् ३२

संहिता

वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः ।
वृषा॑ य॒ज्ञो यमिन्व॑सि॒ वृषा॒ हवः॑ ॥

पदपाठः

वृषा॑ । ग्रावा॑ । वृषा॑ । मदः॑ । वृषा॑ । सोमः॑ । अ॒यम् । सु॒तः ।
वृषा॑ । य॒ज्ञः । यम् । इन्व॑सि । वृषा॑ । हवः॑ ॥

सायणभाष्यम्

ग्रावा अभिषवसाधनपाषाण: वृषा वर्षता कामानां हे इन्द्र त्वदीय: सोमपानजन्योमदश्च वृषा वर्षिता सुतस्त्वदर्थमभिषुतोयं सोमश्च वृषा वर्षिता यं यज्ञमिन्वसि त्वं प्राप्नोषि सच यज्ञोवृषा अभीष्टस्य फलस्य वर्षिता त्वदीतोहवश्च वृषा ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३