वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑ः ।
वा॒वन्थ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हवः॑ ॥
वृषा॑ । त्वा॒ । वृष॑णम् । हुवे॑ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ।
व॒वन्थ॑ । हि । प्रति॑ऽस्तुतिम् । वृषा॑ । हवः॑ ॥
हे वज्रिन् वज्रवन्निन्द्र वृषणं वृषाणं वर्षितारं त्वा त्वां वृषा वर्षिता हविषामासेक्ताऽ हं चित्राभिश्चायनीयाभिः नानाविधाभिर्वा ऊतिभिस्तृप्ति- करीभिःस्तुतिभिः हुवे आह्वये । हि यस्मात् त्वं प्रतिष्टुतिं त्वामभिलक्ष्य कृतं स्तोत्रं ववन्थ वनसि संभजसि अतस्त्वदीयोहवआह्वानं वृषा वर्घिता । यद्वा हवोह्वातव्योवृषा वर्षिता त्वां यस्मात् स्तुतिं वनसि तस्मात् त्वां हुवइत्यर्थः ॥ ३३ ॥