मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् १

संहिता

यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् ।
स्तो॒ता मे॒ गोष॑खा स्यात् ॥

पदपाठः

यत् । इ॒न्द्र॒ । अ॒हम् । यथा॑ । त्वम् । ईशी॑य । वस्वः॑ । एकः॑ । इत् ।
स्तो॒ता । मे॒ । गोऽस॑खा । स्या॒त् ॥

सायणभाष्यम्

हे इन्द्र यथा त्वं एकैअत् एकएव केवलं वस्वोवसुनोधनस्य ईशिषे एवमपि यद्यदि अहं ईशीय ऎश्वर्ययुक्तःस्याम् तदानीं मे मम स्तोता गोसाखा स्यात् गोभिः सहितोभवेत् ईश्वरस्य तव स्तोता कुतोहेतोः गोः सहितोन भवेत् अपितु भवेदित्यभिप्रायः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४