मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् २

संहिता

शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ ।
यद॒हं गोप॑ति॒ः स्याम् ॥

पदपाठः

शिक्षे॑यम् । अ॒स्मै॒ । दित्से॑यम् । शची॑ऽपते । म॒नी॒षिणे॑ ।
यत् । अ॒हम् । गोऽप॑तिः । स्या॒म् ॥

सायणभाष्यम्

हे शचीपते शक्तिमन्निन्द्र अस्मै मनीषिणे मनसईशित्रे स्तोत्रे दित्सेयं दातुमिच्छेयम् तदनंतरं शिक्षेयं प्रार्थितं धनं दद्यां च । यद्यदि अहं गोपतिः गवामधिपतिः स्यां भवेयम् त्वत्मसादादितिशेषः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४