मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् ३

संहिता

धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते ।
गामश्वं॑ पि॒प्युषी॑ दुहे ॥

पदपाठः

धे॒नुः । ते॒ । इ॒न्द्र॒ । सू॒नृता॑ । यज॑मानाय । सु॒न्व॒ते ।
गाम् । अश्व॑म् । पि॒प्युषी॑ । दु॒हे॒ ॥

सायणभाष्यम्

हे इन्द्र ते तव सूनृता स्तुतिरूपा वाग्धेनुः दोग्ध्री गौर्भूत्वा सुचते सोमाभिषवं कुर्वते यजमानाय गामश्वं च उपलक्षणमेतत् गवाश्चादिकं सर्वम- भिलषितं दुहे दुग्धे । किंकुर्वती पिप्युषी तमेव प्रवर्धयित्री ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४