न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्य॑ः ।
यद्दित्स॑सि स्तु॒तो म॒घम् ॥
न । ते॒ । व॒र्ता । अ॒स्ति॒ । राध॑सः । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ ।
यत् । दित्स॑सि । स्तु॒तः । म॒घम् ॥
हे इन्द्र ते तव राधसोधनस्य स्तोतृभ्योदातव्यस्य वर्ता निवारकोदेवोनास्ति नविद्यते । न मर्त्यः मनुष्योपि निवारकोनास्ति । स्तुतः स्तोतृभिः प्रख्यापितगुणः सन् यन्मत्द्यं मघं मंहनीयं धनं दित्ससि त्वं दातुमिच्छसि ॥ ४ ॥