मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् ५

संहिता

य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् ।
च॒क्रा॒ण ओ॑प॒शं दि॒वि ॥

पदपाठः

य॒ज्ञः । इन्द्र॑म् । अ॒व॒र्ध॒य॒त् । यत् । भूमि॑म् । वि । अव॑र्तयत् ।
च॒क्रा॒णः । ओ॒प॒शम् । दि॒वि ॥

सायणभाष्यम्

यज्ञोयजमानैरनुष्ठीयमानोयागः इन्द्रं देवमवर्धयत् श्रूयतेहि-इन्द्रइदंहविरजुषतावीवृधतमहोज्ययोकृतेति । सइन्द्रोयद्यस्मान्द्रूमिं पृथिवीं व्यव- र्तयत् वृष्टचादिप्रदानेन विशेषेण वर्तमानामकरोत् । किंकुर्वन् दिव्यन्तरिक्षे मेघं ओपशं उपेत्यशयानं चक्राणः कुर्वन् यद्वा आत्मनि समवेतोवीर्यवि- शेषओपशः तमन्तरिक्षेकुर्वन् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४