मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् ६

संहिता

वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।
ऊ॒तिमि॒न्द्रा वृ॑णीमहे ॥

पदपाठः

व॒वृ॒धा॒नस्य॑ । ते॒ । व॒यम् । विश्वा॑ । धना॑नि । जि॒ग्युषः॑ ।
ऊ॒तिम् । इ॒न्द्र॒ । आ । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

हे इन्द्र वावृधानस्य वर्धमानस्य विश्वा विश्वानि सर्वाणि धनानि शत्रुसंबंधीनि जिग्युषोजितवतस्ते तव ऊतिं रक्षां वयमावृणीमहे आभिमुख्येन- संभजामहे ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५