मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् ७

संहिता

व्य१॒॑न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना ।
इन्द्रो॒ यदभि॑नद्व॒लम् ॥

पदपाठः

वि । अ॒न्तरि॑क्षम् । अ॒ति॒र॒त् । मदे॑ । सोम॑स्य । रो॒च॒ना ।
इन्द्रः॑ । यत् । अभि॑नत् । व॒लम् ॥

सायणभाष्यम्

सोमस्यपानेन मदे हर्षे सति रोचना रोचमानमन्तरिक्षं अयमिन्द्रोव्यतिरत् व्यवर्धयत् यत् यस्मात्कारणात् वलं आवृत्य स्थितमसुरं मेघं वा अभिनत् व्यदारयत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५