मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् ८

संहिता

उद्गा आ॑ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः ।
अ॒र्वाञ्चं॑ नुनुदे व॒लम् ॥

पदपाठः

उत् । गाः । आ॒ज॒त् । अङ्गि॑रःऽभ्यः । आ॒विः । कृ॒ण्वन् । गुहा॑ । स॒तीः ।
अ॒र्वाञ्च॑म् । नु॒नु॒दे॒ । व॒लम् ॥

सायणभाष्यम्

अङ्गिरोभ्यऋषिभ्यः वलानुचरैः पणिभिरपहृतागाः उदाजत् उदगमयत् किंकुर्वन् गुहा गुहायां बिले सतीः विद्यमानाः यथा नदृश्यन्ते तथा पणिभिर्गूढाः ता गाः आविष्कृण्वन् प्रकाशयन् अपिच पणीनां अधिपतिं वलमसुरमपि अर्वाञ्चमधोमुखं नुनुदे प्रेरितवान् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५