मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् १२

संहिता

इन्द्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः ।
उप॑ य॒ज्ञं सु॒राध॑सम् ॥

पदपाठः

इन्द्र॑म् । इत् । के॒शिना॑ । हरी॒ इति॑ । सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ ।
उप॑ । य॒ज्ञम् । सु॒ऽराध॑सम् ॥

सायणभाष्यम्

केशिना केशिनौ मूर्धजानि लोमानि केशास्तद्वन्तौ हरी अश्वौ सुराधसं शोभनधनं इन्द्रमित् इन्द्रमेव यज्ञमुपास्मद्यज्ञं प्रति सोमपेयाय सोमपा- नार्थं वक्षतः वहतां यद्वा यज्ञं यष्टव्यमिंद्रं उपवहताम् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६