मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् १३

संहिता

अ॒पां फेने॑न॒ नमु॑चे॒ः शिर॑ इ॒न्द्रोद॑वर्तयः ।
विश्वा॒ यदज॑य॒ः स्पृधः॑ ॥

पदपाठः

अ॒पाम् । फेने॑न । नमु॑चेः । शिरः॑ । इ॒न्द्र॒ । उत् । अ॒व॒र्त॒यः॒ ।
विश्वाः॑ । यत् । अज॑यः । स्पृधः॑ ॥

सायणभाष्यम्

पुरा किलेन्द्रोसुरान् जित्वा न मुचिमसुरं ग्रहीतुं न शशाक सच युध्यमानस्तेनासुरेण जगृहे सच गृहीतमिन्द्रमेवमवोचत् त्वां विसृजामि रात्रा- वह्निच शुष्केणार्द्रेण चायुधेन यदि मां माहिंसीरिति । सइन्द्रस्तेनविसृष्टः सन् अहोरात्रयोः संधौ शुष्कार्द्रविलक्षणेन फेनेन तस्यशिरश्चिच्छेद अय- मर्थोस्यां प्रतिपाद्यते-हे इन्द्र अपां फेनेन वज्त्रीभूतेन नमुचेरसुरस्य शिरः उदवर्तयः शरीरादुद्गतमवर्तयः अच्छेत्सीरित्यर्थः । कदेतिचेत् यद्यदा विश्वाः सर्वाः स्पृधः स्पर्धमानाः आसुरीः सेनाः अजयः जितवानसि ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६