मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् १४

संहिता

मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः ।
अव॒ दस्यूँ॑रधूनुथाः ॥

पदपाठः

मा॒याभिः॑ । उ॒त्ऽसिसृ॑प्सतः । इन्द्र॑ । द्याम् । आ॒ऽरुरु॑क्षतः ।
अव॑ । दस्यू॑न् । अ॒धू॒नु॒थाः॒ ॥

सायणभाष्यम्

हे इन्द्र मायाभिः उत्सिसृप्सतः सर्वत्र प्रसरतः द्यां आरुरुक्षतः द्युलोकं आरोहतः दस्युन् श्त्रून् उपक्षेप्तृन् अवाधूनुथाः अवाड्मखं प्रेरितवानसि ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६