मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १५, ऋक् १

संहिता

तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् ।
इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥

पदपाठः

तम् । ऊं॒ इति॑ । अ॒भि । प्र । गा॒य॒त॒ । पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् ।
इन्द्र॑म् । गीः॒ऽभिः । त॒वि॒षम् । आ । वि॒वा॒स॒त॒ ॥

सायणभाष्यम्

पुरुहूतं बहुभिराहूतं पुरुष्टुतं बहुभिःस्तुतं तमु तमेवेन्द्रं हे स्तोतारः अभिप्रगायत अभिमुखं प्रकर्षेणस्तुध्वम् एतदेवस्पष्टयति तविषं महान्तमिन्द्रं गीर्भिर्वाग्भिः आविवासत परिचरत ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७