मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १५, ऋक् २

संहिता

यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी ।
गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना ॥

पदपाठः

यस्य॑ । द्वि॒ऽबर्ह॑सः । बृ॒हत् । सहः॑ । दा॒धार॑ । रोद॑सी॒ इति॑ ।
गि॒रीन् । अज्रा॑न् । अ॒पः । स्वः॑ । वृ॒ष॒ऽत्व॒ना ॥

सायणभाष्यम्

द्विबर्हसः द्वयोःस्थानयोः परिवृढस्य यस्येन्द्रस्य बृहन्महत् सहोबलं रोदसी द्यावापृथिव्यौ दाधार धारयति छान्दसोलिट् तुजादित्वादभ्यासदीर्घः तथा अज्रान् क्षिप्रगमनान् गिरीन् पवर्तान् मेघान् वा स्वः सरणशीला अपउदकानिच वृषत्वना वीर्येण यस्येन्द्रस्य बलंधारयेति तत्रावस्थापयति तम्वभीति पूर्वया संबंधः सत्वमित्युत्तरया वा ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७