मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १५, ऋक् ३

संहिता

स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे ।
इन्द्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यन्त॑वे ॥

पदपाठः

सः । रा॒ज॒सि॒ । पु॒रु॒ऽस्तु॒त॒ । एकः॑ । वृ॒त्राणि॑ । जि॒घ्न॒से॒ ।
इन्द्र॑ । जैत्रा॑ । श्र॒व॒स्या॑ । च॒ । यन्त॑वे ॥

सायणभाष्यम्

हे पुरुष्टुत बहुभिः स्तुतेन्द्र सपूर्वोक्तगुणस्त्वं राजसि दीप्यसे ईशिषे वा अपिच त्वमेकः सहायरहितः केवलएवसन् वृत्राण्यावरकाणि शत्रुजातानि जिघ्नसे हतवानसि । किमर्थं जैत्रा जैत्राणि जेतव्यानि धनानि श्रवस्या श्रवस्यानि श्रवणीयान्यन्नानि यद्वा श्रवणार्हाणि यशांसि च यंतवे यन्तुं निय- न्तुं स्वाधीनं कर्तुम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७