मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १५, ऋक् ४

संहिता

तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् ।
उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥

पदपाठः

तम् । ते॒ । मद॑म् । गृ॒णी॒म॒सि॒ । वृष॑णम् । पृ॒त्ऽसु । स॒स॒हिम् ।
ऊं॒ इति॑ । लो॒क॒ऽकृ॒त्नुम् । अ॒द्रि॒ऽवः॒ । ह॒रि॒ऽश्रिय॑म् ॥

सायणभाष्यम्

हे अद्रिवोवज्रवन्निन्द्र ते त्वदीयं तं मदं सोमपानजनितं हर्षं गृणीमसि गृणीमः प्रशंसामः गृशब्दे क्र्यादिः प्वादीनांह्रस्वः इदंतोमसीति मसइ- कारागमः । कीदृशं वृषणं वर्षितारं कामानां पृत्सु संग्रामेषु सासहिं शत्रूणामभिभवितारं लोककृत्नुं लोकस्य स्थानस्य कर्तारं हरिश्रियं हरिभ्याम- श्वाभ्यां श्रयणीयं सेव्यं उशब्दः समुज्वये पदपूरणे वा ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७