मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १५, ऋक् ५

संहिता

येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ ।
म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥

पदपाठः

येन॑ । ज्योतीं॑षि । आ॒यवे॑ । मन॑वे । च॒ । वि॒वेदि॑थ ।
म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः॑ । वि । रा॒ज॒सि॒ ॥

सायणभाष्यम्

हे इन्द्र येनात्मीयेन मदेन आयवे और्वशेयाय मनवे विवस्वतः पुत्राय च ज्योतींषि सूर्यादीनि वृत्रादिभिरावृतानि तद्धरणेन विवेदिथ अलंभयः प्रज्ञापितवान् प्रकाशितवानसीत्यर्थः तेन मदेन मन्दानोमोदमानस्त्वं अस्य बर्हिषा वृद्धस्य यज्ञस्य विराजसि विशेषेणेशिषे । यद्वा अभ्येति तृती- यार्थेषष्ठी अनेन बर्हिषा वृद्धेन हृष्यन् विराजसि विशेषेण दीप्यसे ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७