मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १५, ऋक् ७

संहिता

तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म् ।
वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ॥

पदपाठः

तव॑ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तव॑ । शुष्म॑म् । उ॒त । क्रतु॑म् ।
वज्र॑म् । शि॒शा॒ति॒ । धि॒षणा॑ । वरे॑ण्यम् ॥

सायणभाष्यम्

हे इन्द्र तव त्यत् तत्प्रसिद्धं इन्द्रियमिन्द्रस्यलिंगं बृहत्प्रभूतं वीर्यं धिषणा स्तुतिः शिशाति निःश्यति तीक्ष्णीकरोति । तथा तव त्वदीयं शुष्मं शोषकं बलं उतापिच क्रतुं प्रज्ञानं बलं कर्म वा वरेण्यं वरणीयं वज्रमायुधंच स्तुतिः तीक्ष्णीकरोति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८