मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १५, ऋक् ९

संहिता

त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः ।
त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तम् ॥

पदपाठः

त्वाम् । विष्णुः॑ । बृ॒हन् । क्षयः॑ । मि॒त्रः । गृ॒णा॒ति॒ । वरु॑णः ।
त्वाम् । शर्धः॑ । म॒द॒ति॒ । अनु॑ । मारु॑तम् ॥

सायणभाष्यम्

हे इन्द्र बृहन्महान् क्षयोनिवासहेतुर्विष्णुर्मित्रोवरुणश्च त्वां गृणाति स्तौति तथा मारुतं मरुत्संबंधि शर्धोबलं त्वामनु मदति तव मदमनुलक्ष्य पश्चान्माद्यति त्वामनु मादयति वा ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८