त्वं वृषा॒ जना॑नां॒ मंहि॑ष्ठ इन्द्र जज्ञिषे ।
स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिषे ॥
त्वम् । वृषा॑ । जना॑नाम् । मंहि॑ष्ठः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ ।
स॒त्रा । विश्वा॑ । सु॒ऽअ॒प॒त्यानि॑ । द॒धि॒षे॒ ॥
हे इन्द्र वृषा वर्षिता त्वं जनानां देवजनानां मध्ये मंहिष्ठोदातृतमोजज्ञिषे प्रादुर्भवसि । अतएव विश्वा सर्वाणि स्वपत्यानि शोभनैः पुत्रादिभिः सहितानि सत्रा सह दधिषे । यद्वा स्तोतृतमोजज्ञिषे प्रादुर्भवसि अतएव विश्वा सर्वाणि दातुं धारयसि ददासि वा ॥ १० ॥