मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १५, ऋक् ११

संहिता

स॒त्रा त्वं पु॑रुष्टुतँ॒ एको॑ वृ॒त्राणि॑ तोशसे ।
नान्य इन्द्रा॒त्कर॑णं॒ भूय॑ इन्वति ॥

पदपाठः

स॒त्रा । त्वम् । पु॒रु॒ऽस्तु॒त॒ । एकः॑ । वृ॒त्राणि॑ । तो॒श॒से॒ ।
न । अ॒न्यः । इन्द्रा॑त् । कर॑णम् । भूयः॑ । इ॒न्व॒ति॒ ॥

सायणभाष्यम्

हे पुरुष्टुत बहुभिः स्तुतेन्द्र त्वमेकोसहायएवसन् सत्रा महन्नामैतत् महान्ति वृत्राणि शत्रुजातानि यद्वा सत्रेति सहार्थे सहैव युगपदेव एकयत्नेनैव तोशसे हिनस्सि तोशतिर्वधकर्मा अकर्तुं शक्तानीतिभावः । अपिचास्मादिन्द्रादन्यः कश्चिद्धूयोबहुतरं करणं कर्म वृत्रवधादिकं न इन्वति प्राप्नोति इन्द्रएव कर्तुं शक्रोतीतिभावः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९