मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १५, ऋक् १२

संहिता

यदि॑न्द्र मन्म॒शस्त्वा॒ नाना॒ हव॑न्त ऊ॒तये॑ ।
अ॒स्माके॑भि॒र्नृभि॒रत्रा॒ स्व॑र्जय ॥

पदपाठः

यत् । इ॒न्द्र॒ । म॒न्म॒ऽशः । त्वा॒ । नाना॑ । हव॑न्ते । ऊ॒तये॑ ।
अ॒स्माके॑भिः । नृऽभिः॑ । अत्र॑ । स्वः॑ । ज॒य॒ ॥

सायणभाष्यम्

हे इन्द्र थद्यस्मिन् संग्रामे त्वा त्वां मन्मशः मन्मना मननीयेन स्तोत्रेण नाना बहुप्रकारं हवन्ते आह्वयन्ति । किमर्थं ऊतये रक्षायै । अत्रास्मिन् संग्रामे अस्माकेभिः अस्माकैरस्मदीयैरेव नृभिर्नेतृभिः स्तोतृभिः आहूतः सन् स्वः शत्रुबलं जयाभिभव ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९