मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १६, ऋक् १

संहिता

प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः ।
नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम् ॥

पदपाठः

प्र । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । स्तोता॑ । नव्य॑म् । गीः॒ऽभिः ।
नर॑म् । नृ॒ऽसह॑म् । मंहि॑ष्ठम् ॥

सायणभाष्यम्

चर्षणीनां मनुष्याणां मध्ये सम्राजम् सम्यग्राजमानं यद्वा मनुष्याणामधीश्वरमिन्द्रं हे स्तोतारः प्रस्तोत प्रकर्षेणस्तुत । कीदृशं गीर्भिः स्तुतिभि- र्नव्यं स्तुत्यं नरं नेतारं नृषाहं नृणां शत्रुमनुष्याणां अभिभवितारं मंहिष्ठं दातृतमं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०