मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १६, ऋक् २

संहिता

यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रव॒स्या॑ ।
अ॒पामवो॒ न स॑मु॒द्रे ॥

पदपाठः

यस्मि॑न् । उ॒क्थानि॑ । रण्य॑न्ति । विश्वा॑नि । च॒ । श्र॒व॒स्या॑ ।
अ॒पाम् । अवः॑ । न । स॒मु॒द्रे ॥

सायणभाष्यम्

यस्मिन्निन्द्रे उक्थानि शस्त्राणि रण्यंति रमंते विश्वानि सर्वाणि श्रवस्या श्रवस्यानि श्रवणीयानि हविर्लक्षणानि अन्नानिच रमन्ते तत्रदृष्टांतः-समुद्रे उदधौ अपामुदकानां अवोन अवति गच्छतीत्यवस्तरंगजालं तद्यथा समुद्रेन्तर्भवति तथारण्यन्तीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०