मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १६, ऋक् ५

संहिता

तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते ।
येषा॒मिन्द्र॒स्ते ज॑यन्ति ॥

पदपाठः

तम् । इत् । धने॑षु । हि॒तेषु॑ । अ॒धि॒ऽवा॒काय॑ । ह॒व॒न्ते॒ ।
येषा॑म् । इन्द्रः॑ । ते । ज॒य॒न्ति॒ ॥

सायणभाष्यम्

धनेषु हितेषु शत्रुषु निहितेषु प्रात्पेषु सत्सु तमित् तं पूर्वोक्तगुणमेवेन्द्रं अधिवाकाय अधिवचनाय पक्षपातवचनाय हवन्ते स्तोतारआह्वयन्ति । तत्रच येषां पक्षे इन्द्रोवर्तते तएव जयन्ति । जयेन तानि धनानि लभंते नान्ये ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०