मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १६, ऋक् ६

संहिता

तमिच्च्यौ॒त्नैरार्य॑न्ति॒ तं कृ॒तेभि॑श्चर्ष॒णयः॑ ।
ए॒ष इन्द्रो॑ वरिव॒स्कृत् ॥

पदपाठः

तम् । इत् । च्यौ॒त्नैः । आर्य॑न्ति । तम् । कृ॒तेभिः॑ । च॒र्ष॒णयः॑ ।
ए॒षः । इन्द्रः॑ । व॒रि॒वः॒ऽकृत् ॥

सायणभाष्यम्

तमित् तमेवेन्द्रं च्यौद्त्नैर्बलकरैः स्तोत्रैः आर्यन्ति आर्यमभिज्ञं ईश्वरं कुर्वन्ति चर्षणयोमनुष्याः कृतेभिः कृतैः कर्मभिश्च आर्यन्ति एषएवंगुणकइ- न्द्रोवरिवस्कृत् धनस्य कर्ता भवति स्तोतृणाम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०