मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १६, ऋक् ७

संहिता

इन्द्रो॑ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्र॑ः पु॒रू पु॑रुहू॒तः ।
म॒हान्म॒हीभि॒ः शची॑भिः ॥

पदपाठः

इन्द्रः॑ । ब्र॒ह्मा । इन्द्रः॑ । ऋषिः॑ । इन्द्रः॑ । पु॒रु । पु॒रु॒ऽहू॒तः ।
म॒हान् । म॒हीभिः॑ । शची॑भिः ॥

सायणभाष्यम्

अयमिन्द्रोब्रह्मा परिवृढः सर्वेभ्योधिकः सएवेन्द्रऋषिर्द्रष्टा सर्वस्यार्यजातस्य सइन्द्रः पुरुबहुलं पुरुहूतोबहुभिराहूतश्च महीभिर्महतीभिः शचीभिः क्रियाभिः वृत्रवधादिरूपाभिः महान्प्रभूतो भवति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१