मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १६, ऋक् ९

संहिता

तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णयः॑ ।
इन्द्रं॑ वर्धन्ति क्षि॒तयः॑ ॥

पदपाठः

तम् । अ॒र्केभिः॑ । तम् । साम॑ऽभिः । तम् । गा॒य॒त्रैः । च॒र्ष॒णयः॑ ।
इन्द्र॑म् । व॒र्ध॒न्ति॒ । क्षि॒तयः॑ ॥

सायणभाष्यम्

चर्षणयोद्रष्टारोमंत्राणां क्षितयोमनुश्यास्तमिन्द्रं अर्केभिरर्चनसाधनैर्यजूरूपैः मंत्रैर्वर्धन्ति वर्धयन्ति तथोद्गातारः सामभिर्गानविशिष्टैर्मन्त्रैस्तंव- र्धयन्ति तथा गायत्रैर्गायत्र्यादिछन्दोयुक्तैः शस्त्ररूपैरप्रगीतैर्मंत्रैः तमेवेन्द्रं होतारोवर्धयन्ति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१