मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १६, ऋक् १०

संहिता

प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योति॑ः स॒मत्सु॑ ।
सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न् ॥

पदपाठः

प्र॒ऽने॒तार॑म् । वस्यः॑ । अच्छ॑ । कर्ता॑रम् । ज्योतिः॑ । स॒मत्ऽसु॑ ।
स॒स॒ह्वांस॑म् । यु॒धा । अ॒मित्रा॑न् ॥

सायणभाष्यम्

वस्योवसीयः प्रशस्तं वसु धनं अच्छाभिमुख्येन प्रणेतारं प्रापयितारं समत्सु संग्रामेषु शत्रुनिरसनेन ज्येतिः प्रकाशं जयलक्षणं कर्तारं करणशीलं करोतेः ताच्छीलिकस्तृन् । कुतइत्यतआह युधा युद्धेन अमित्रान् शत्रून्ससह्वांसमभिभूतवंतं एवंगुणकमिन्द्रं वर्धयन्तीतिशेषः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१