मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १६, ऋक् ११

संहिता

स न॒ः पप्रि॑ः पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः ।
इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ ॥

पदपाठः

सः । नः॒ । पप्रिः॑ । पा॒र॒या॒ति॒ । स्व॒स्ति । ना॒वा । पु॒रु॒ऽहू॒तः ।
इन्द्रः॑ । विश्वा॑ । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

पप्रिः प्राता पूरयिता पुरूहूतोबहुभिराहूतः सइन्द्रः विश्वाः सर्वाद्विषोद्वेष्ट्रीः प्रजाः नोस्मान् नावा तरणसाधनेन स्वस्ति क्षेमेण अतिपारयाति अतिपारयतु ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१