मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् ३

संहिता

ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिनः॑ ।
सु॒ताव॑न्तो हवामहे ॥

पदपाठः

ब्र॒ह्माणः॑ । त्वा॒ । व॒यम् । यु॒जा । सो॒म॒ऽपाम् । इ॒न्द्र॒ । सो॒मिनः॑ ।
सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे इन्द्र ब्रह्माणोब्राह्मणावयं त्वा त्वां युजा योग्येन स्तोत्रेण हवामहे आह्वयामहे । कथंभूतं सोमपां सोमस्य पातारम् । कीदृशावयं सोमिनः सो- मयुक्ताः सुतवन्तः अभिषुतैश्च सोमैरुपेताः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२