मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १७, ऋक् ४

संहिता

आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑ ।
पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः ॥

पदपाठः

आ । नः॒ । या॒हि॒ । सु॒तऽव॑तः । अ॒स्माक॑म् । सु॒ऽस्तु॒तीः । उप॑ ।
पिब॑ । सु । शि॒प्रि॒न् । अन्ध॑सः ॥

सायणभाष्यम्

हे इन्द्र सुतवतः अभिषुतसोमयुक्तान् नोस्मानायाह्वभिगच्छ ततोस्माकं संबंधीनि सुष्टुतीः शोभनानि स्तोत्राणि उपगच्छ जानीहि । हे सुशिप्रिन् शोभनशिरस्त्राण शोभनहनुकवेन्द्र अन्धसः अन्नस्य सोमलक्षणस्य स्वांशलक्षणं भागं पिब यद्वा कर्मणिषष्ठी अंधोस्मदीयं सोमं पिब ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२